This page has not been fully proofread.

२५४
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
द्वैतवर्जितचिन्मात्रे पदे परमपावने ।
 
अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥
 
इदं जगदयं सोऽयं दृश्यजातमवास्तवम् ।
 
यस्य चित्तेन स्फुरति स जीवन्मुक्त उच्यते
 
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
 
९७४ ॥
 
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥
 
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।
 
ब्रह्मामिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥
 
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥
 
अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्वयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥
 
जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
 
विशत्यदेह मुक्तित्वं पवनोऽस्पन्दतामिव ॥ ९७९ ॥
 
ततस्तत्संबभूवासौ यद्विरामप्यगोचरम् ।
 
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥