Proofing

This page has not been fully proofread.

२४४
 
उपदेशसहस्री
 
असिद्धितश्चापि विचारकारणा-
 
हूयं च तस्मात्प्रसृतं च मायया ।
श्रुतेः स्मृतेश्चापि तथा हि युक्तितः
प्रसिध्यतीत्थं न तु युज्यतेऽन्यथा ॥ १७ ॥
 
विकल्पनाश्चापि विधर्मकं श्रुतेः
पुरा प्रसिद्धेश्ध विकल्पितोऽद्वयम् ।
न चेति नेतीति यथा विकल्पितं
निषिध्यते ऽत्राप्यविशेषसिद्धये ॥ १८ ॥
 
अकल्पिते ऽप्येवमजेऽद्वये ऽक्षरे
 
विकल्पयन्तः सदसच्च जन्मभिः ।
 
स्वचित्तमायाप्रभवं च ते भवं
 
जरां च मृत्युं च नियान्ति संततम् ॥ १९ ॥
 
भवाभवत्वं तु न चेदवस्थिति-
 
र्न चास्य चान्यस्थितिजन्म नान्यथा ।
 
सतो ह्यसत्त्वादसतश्च सत्त्वतो
 
न च क्रियाकारकमित्यतोऽप्यजम् ॥ २० ॥
 
अकुर्वदिष्टं यदि वास्य कारकं
 
न किंचिदन्यन्ननु नास्त्यकारकम् ।
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot