This page has not been fully proofread.

२५२
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
दृश्यधीवृत्तिरेतस्य केवली भावभावना ।
 
परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥
 
परब्रह्मवाभाति निर्विकारैकरूपिणी ।
 
सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥
 
इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी ।
शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥
 
यथावद्भेदबुद्धयेदं जगज्जादितीर्यते ।
 
अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥
 
पश्यन्ति स्वप्रवल्लोकं तुर्यभूमिसुयोगतः ।
 
पञ्चमी भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१ ॥
 
शान्ताशेषविशेषांश स्तिष्ठेद द्वैत मात्रके ।
 
अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥
 
परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते ।
कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥
 
तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराद् ।
विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४ ॥