Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
२४१
 
सदैव तृप्तश्च न कामये हितं
 
यतस्व चेतः प्रशमाय तेऽधिकम् ॥ ३ ॥
 
पडूर्मिमालाभ्यतिवृत्त एव यः
 
स एव चात्मा जगतश्च नः श्रुतः ।
प्रमाणतश्चापि मया प्रवेद्यते
 
मुधैव तस्माश्च मनस्तवेहितम् ॥ ४ ॥ .
 
त्वयि प्रशान्ते न हि चास्ति भेदधी-
येतो जगन्मोहमुपैति मायया ।
ग्रहो हि मायाप्रभवस्य कारणं
 
प्रहाद्विमोके न हि सास्ति कस्यचित् ॥ ५ ॥
 
न मेऽस्ति मोहस्तव चेष्टितेन हि
प्रयुद्धतत्वस्त्वसितो ह्यविक्रियः ।
 
न पूर्वतत्त्वोत्तरभेदता हि नो
 
वृथैव तस्माच्च मनस्तवेहितम् ॥ ६ ॥
 
यता नित्योऽहमतो न चान्यथा
 
विकारयोगे हि भवेदनित्यता ।
 
सदा प्रभातोऽहमतो हि चाहयो
 
विकल्पितं चाप्यसदित्यवस्थितम् ॥ ७ ॥
 
N. P. 16
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang