Proofing

This page has not been fully proofread.

२४०
 
उपदेश सहस्री
 
धया पीड्यमानोऽपि न विषं ह्यचुमिच्छति ।
मृष्टान्नध्वस्ततृइ जानन्नामूढस्तजिघत्सति ॥ २२८ ॥
 
वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् ।
उज्जहारालिवद्यो नस्तस्मै सद्गुरवे नमः ॥ २२९ ॥
 
भेषजप्रयोगप्रकरणम् ॥
 
प्रयुज्य तृष्णाज्वरनाशकारणं
चिकित्सितं ज्ञानविरागभेषजम् ।
न याति कामज्वरसंनिपातजां
शरीरमालाशतयोगदुःखिताम् ॥ १ ॥
 
अहं ममेति त्वमनर्थमीहसे
परार्थमिच्छन्ति तवान्य ईहितम् ।
न तेऽर्थबोधो न हि मेऽस्ति चार्थिता
ततश्च युक्तः शम एव ते मनः ॥ २ ॥
 
यतो न चान्यः परमात्सनातना-
सदैव तृप्तोऽहमतो न मेऽर्थिता ।
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot