This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२४९
 
न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥
 
वेर्यथा कर्मणि साक्षिभावो
 
वह्नेर्यथा वायसि दाहकत्वम् ।
 
रज्जोर्यथारोपितवस्तुसङ्ग-
 
स्तथैव कूटस्थ चिदात्मनो मे ॥ ९३५ ॥
 
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः ।
मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६ ॥
 
जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् ।
 
विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥
 
श्रीगुरुः--
 
वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः ।
 
ज्ञाते यस्मिंस्त्वया सर्व ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥
 
ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।
 
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥
 
सत्त्वापत्तिचतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
 
पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥