Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
त्वमर्थं प्रत्यगात्मानं पश्येदात्मानमात्मनि ।
 
२३९
 
वाक्यार्थे तत आत्मानं सर्वे पश्यति केवलम् ॥ २२० ॥
 
सर्वमात्मेति वाक्यार्थं विज्ञातेऽस्य प्रमाणतः ।
असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत्कथम् ॥
 
तस्माद्वाक्यार्थविज्ञानान्नोर्ध्वं कर्मविधिर्भवेत् ।
न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियो ॥ २२२ ॥
 
ब्रह्मास्मीति च विद्येयं नैव कर्तेति बाध्यते ।
सकामो बद्ध इत्येवं प्रमाणाभासजातया ॥ २२३ ॥
 
शास्त्राद्ब्रह्मास्मि नान्योऽहमिति बुद्धिर्भवेद्दृढा ।
यदा युक्ता तदैवंधर्यथा देहात्मधीरिति ॥ २२४ ॥
सभयादभयं प्राप्तस्तदर्थं यतते च यः ।
 
स पुनः सभयं गन्तुं स्वतन्त्रश्चेन्न हीच्छति ॥ २२५ ॥
 
यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः ।
पदार्थाशानबुद्धस्य वाक्यार्थानुभवार्थिनः ।
 
अतः सर्वमिदं सिद्धं यत्प्रागस्माभिरीरितम् ॥ २२६ ॥
 
यो हि यस्माद्विरक्तः स्यान्नासौ तस्मै प्रवर्तते ।
लोकत्रयाद्विरक्तत्वान्मुमुक्षुः किमितीहते ॥ २२७ ॥
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang