2026-05-06 06:43:21 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
सेत्स्यतीत्येव चेत्तत्स्याच्छ्रवणादि तदा भवेत् ।
२३७
मोक्षस्यानित्यतैथं स्याद्विरोधे नान्यथा वचः ॥ २०४ ॥
श्रोतृश्रोतव्ययोर्भेदो यदीष्टः स्याद्भवेदिदम् ।
इष्टार्थकोप एवं स्यान्न युक्तं सर्वथा वचः ॥
सिद्धो मोक्षोऽहमित्येव ज्ञात्वात्मानं भवेद्यदि ।
चिकीर्षुर्यः स मूढात्मा शास्त्रं चोद्घाटयत्यपि ॥
न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता ।
उभयालम्बनं कुर्वन्नात्मानं वञ्चयत्यपि ॥ २०७ ॥
सिद्धो मोक्षस्त्वमित्येतद्वस्तुमात्रं प्रदइर्यते ।
श्रोतुस्तथात्वविज्ञाने प्रवृत्तिः स्यात्कथं त्विति ॥
कर्ता दुःख्यहमस्मीति प्रत्यक्षेणानुभूयते ।
कर्ता दुःखी च मा भूवमिति यतो भवेत्ततः ॥ २०९ ॥
तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिरब्रवीत् ।
कर्तृत्वाद्यनुवादेन सिद्धत्वानुभवाय तु ॥ २१० ॥
निर्दुःखो निष्क्रियोऽकामः सिद्धो मोक्षोऽहमित्यपि ।
गृहीत्वैव विरुद्धार्थमादध्यात्कथमेव सः ॥ २११ ॥
-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang