Proofing

This page has not been fully proofread.

२३६
 
उपदेशसहस्री
 
एवं तत्त्वमसीत्यस्य गम्यमाने फले कथम् ।
अप्रमाणत्वमस्योक्त्वा क्रियापेक्षत्वमुच्यते ॥ १९६ ॥
 
तस्मादाद्यन्तमध्येषु कुर्वित्येतद्विरोध्यतः ।
 
न कल्प्यमश्रुतत्वाच्च श्रुतत्यागोऽप्यनर्थकः ॥
 
यथानुभूयते तृप्तिर्भुजेर्वाक्यान्न गम्यते ।
वाक्यस्य विधृतिस्तद्वगोशकृत्पायसीक्रिया ॥
 
सत्यमेवमनात्मार्थवाक्यात्पारोक्ष्यबोधनम् ।
प्रत्यगात्मनि न त्वेवं संख्याप्राप्तिवदध्रुवम् ॥
 
स्वयंवेद्यत्वपर्यायः स्वप्रमाणक इप्यताम् ।
निवृत्ताविदमः सिद्धः स्वात्मनोऽनुभवश्च नः ॥ २०० ॥
 
बुद्धीनां विषयो दुःखं नो यस्य विषया मताः ।
कुतोऽस्य दुःखसंबन्धो दृशेः स्यात्प्रत्यगात्मनः ॥
 
दृशिरेवानुभूयेत स्वेनैवानुभवात्मना ।
 
तदाभासतया जन्म धियोऽस्यानुभवः स्मृतः ॥ २०२ ॥
 
अशनायादिनिर्मुक्तः सिद्धो मोक्षस्त्वमेव सः ।
 
श्रोतव्यादि तवेत्येतद्विरुद्धं कथमुच्यते ॥ २०३ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot