2026-05-06 06:43:21 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
२३५
नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः ।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ १८८ ॥
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ १८९ ॥
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ॥ १९० ॥
प्रबोधेन यथा स्वामं सर्वदुःखं निवर्तते ।
प्रत्यगात्मधिया तद्वद्दुःखित्वं सर्वदात्मनः ॥
कृष्णलादी प्रमाजन्म तदन्यार्थमृदुत्वतः ।
तत्त्वमस्यादिवाक्येषु न त्वेवमविरोधतः ॥ १९२ ॥
वाक्ये तत्त्वमसीत्यस्मिञ्ज्ञातार्थे तदसिद्वयम् ।
स्वमर्थे सत्यसाहाय्याद्वाक्यं नोत्पादयेत्प्रमाम् ॥
तत्वमोस्तुल्यनीडार्थमसीत्येतत्पदं भवेत् ।
तच्छब्दः प्रत्यगात्मार्थस्तच्छब्दार्थस्त्वमस्तथा ॥
दुःखित्वात्प्रत्यगात्मत्वं वारयेतामुभावपि ।
एवं च नेति नेत्यर्थं गमयेतां परस्परम् ॥ १९५ ॥
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang