This page has not been fully proofread.

२४४
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः
 
विपरीतार्थ धीर्यावन्न निःशेषं निवर्तते ।
 
स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनिर्गलम् ।
तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥
 
न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।
प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥
 
स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः
स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥
 
अस्मिन्समाधौ कुरुते प्रयासं
 
यस्तस्य नैवास्ति पुनर्विकल्पः ।
सर्वात्मभावोऽप्यमुनैव सिध्ये-
 
त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥
 
सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।
जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥
 
योऽहं ममेत्याद्यसदात्मगाहको
 
ग्रन्थिर्लयं याति स वासनामयः ।