2026-05-06 06:43:21 by ambuda-bot
This page has not been fully proofread.
२३४
उपदेश सहस्त्री
अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा ।
त्वंपदार्थविवेके हि पाणावर्पितबिल्ववत् ॥ १८० ॥
वाक्यार्थो व्यज्यते चैवं केवलोऽहंपदार्थतः ।
दुःखीत्येतदपोहेन प्रत्यगात्मविनिश्चयात् ॥ १८१ ॥
तत्रैवं संभवत्यर्थे श्रुतहानाश्रुतार्थधीः ।
नैव कल्पयितुं युक्ता पदवाक्यार्थकोविदैः ॥ १८२ ॥
प्रत्यक्षादीनि बाधेर कृष्णलादिषु पाकवत् ।
अक्षजादिनिभैरेतैः कथं स्याद्वाक्यबाधनम् ॥ १८३ ॥
दुःख्यस्मीति सति ज्ञाने निर्दुःखीति न जायते ।
प्रत्यक्षादिनिभत्वेऽपि वाक्यान्न व्यभिचारतः ॥
स्वप्ने दुःख्यहमध्यासं दाहच्छेदादिहेतुतः ।
तत्कालभाविभिर्वाक्यैर्न बाधः क्रियते यदि ॥ १८५ ॥
समाप्तेस्तर्हि दुःखस्य प्राक्व तद्बाध इप्यताम् ।
न हि दुःखस्य संतानो भ्रान्तेर्वा हृदयते क्वचित् ॥
प्रत्यगात्मन आत्मत्वं दुःख्यस्मीत्यस्य बाधया ।
दशमं नवमस्येव वेद चेदविरुद्धता ॥ १८७ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot