This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२४३
 
निर्विकारं निराकारं निरञ्जनमनामयम् ।
 
आद्यन्तरहितं पूर्ण ब्रह्मैवाहं न संशयः ॥ ८९३ ॥
 
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥
 
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥
 
शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥
 
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
 
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥
 
इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् ।
 
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥
 
ब्रह्मानन्दरसावेशादेकीभूय तदात्मना ।
 
वृत्तेर्या निश्वावस्था स समाधिरकल्पकः ॥
 
उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः ।
समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥