Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् ।
अपश्यञ्ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥ १७२ ॥
 
अविद्याबद्धचक्षुष्वात्कामापहृतधीः सदा ।
 
विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ॥ १७३ ॥
 
दशमस्त्वमसीत्येवं तत्त्वमस्यादिवाक्यतः ।
स्वमात्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् ॥
 
इदं पूर्वमिदं पश्चात्पदं वाक्यं भवेदिति ।
नियमो नैव वेदेऽस्ति पदसांगत्यमर्थतः ॥ १७५ ॥
 
अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् ।
वाक्ये हि श्रूयमाणानां पदानामर्थसंस्मृतिः ॥
 
यदा नित्येषु वाक्येषु पदार्थस्तु विविच्यते ।
वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥
 
अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु ।
 
स्मृत्यभावे न वाक्याथों ज्ञातुं शक्यो हि केनचित् ॥
 
तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः ।
 
व्यज्यते नैव वाफ्यार्थी नित्यमुक्तोऽहमित्यतः ॥ १७९ ॥
 
२३३
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang