Proofing

This page has not been fully proofread.

२३२
 
उपदेश सहस्त्री
 
कुण्डल्यहमिति ह्येतद्वाध्येतैव विवेकिना ।
दुःखीति प्रत्ययस्तद्वत्केवलाहंधिया सह ॥ १६४ ॥
 
सिद्धे दुःखित्व इष्टं स्यात्तच्छक्तिश्छन्दसात्मनः ।
मिथ्याभिमानतो दुःखी तेनार्थापादनक्षमः ॥
 
अस्पर्शोऽपि यथा स्पर्शमचलश्चलनादि च ।
अविवेकात्तथा दुःखं मानसं चात्मनीक्षते ॥ १६६ ॥
 
विवेकात्मधिया दुःखं नुद्यते चलनादिवत् ।
अविवेकस्वभावेन मनो गच्छत्यनिच्छतः ॥
 
तदा नु दृश्यते दुःखं नैवल्ये नैव तस्य तत् ।
प्रत्यगात्मनि तस्मात्तद्दुःखं नैवोपपद्यते ॥ १६८ ॥
 
त्वंसतोस्तुल्यनीडत्वान्नीलाश्वयदिदं भवेत् ।
निर्दुःखवाचिना योगात्त्वंशब्दस्य तदर्थता ॥
 
प्रत्यगात्माभिधानेन तच्छब्दस्य युतेस्तथा ।
 
दशमस्त्वमसीत्येवं वाक्यं स्यात्प्रत्यगात्मनि ॥ १७० ॥
 
स्वार्थस्य ह्यप्रहाणेन विशिष्टार्थसमर्पकौ ।
 
प्रत्यगात्माचगत्यन्तौ नान्योऽर्थोऽर्थाद्विरोध्यतः ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot