Proofing

This page has not been fully proofread.

.
 
पद्यप्रबन्धः ।
 
पूर्वं स्यात्प्रत्ययव्याप्तिस्ततोऽनुग्रह आत्मनः ।
कृत्स्नाध्यक्षस्य नो युक्तः कालाकाशादिवत्क्रमः ॥
 
विषयग्रहणं यस्य कारणापेक्षया भवेत् ।
 
सत्येव ग्राह्यशेषे च परिणामी स चित्तवत् ॥ १५७ ॥
 
अध्यक्षोऽहमिति ज्ञानं बुद्धेरेव विनिश्चयः ।
नाध्यक्षस्याविशेषत्वान्न तस्यास्ति परो यतः ॥
 
कर्त्रा चेदहमित्येवमनुभूयेत मुक्तता ।
सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते ॥ १५९ ॥
 
देहादावभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् ।
कुण्डलीप्रत्ययो यद्वत्प्रत्यगात्माभिमानिना ॥ १६० ॥
 
बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् ।
विपर्यासेऽसदन्तं स्यात्प्रमाणस्याप्रमाणतः ॥
 
दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः ।
नव ह्यन्यस्य दाहादावन्यो दुःखी भवेत्क्वचित् ॥
 
अस्पर्शत्वाददेहत्वान्नाहं दाह्यो यतः सदा ।
 
तस्मान्मिथ्याभिमानोत्थं मृते पुत्रे मृतिर्यथा ॥ १६३ ॥
 
२३१
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang