2026-05-06 06:43:20 by ambuda-bot
This page has not been fully proofread.
२३०
उपदेश सहस्री
अपोहो यदि भिन्नानां वृत्तिस्तस्य कथं गवि ।
नाभावा भेदकाः सर्वे विशेषा वा कथंचन ।
नामजात्यादयो यद्वत्संविदस्तेऽविशेषतः ॥ १४८ ॥
प्रत्यक्षमनुमानं वा व्यवहारे यदिच्छसि ।
क्रियाकारकभेदैस्तदभ्युपेयं ध्रुवं भवेत् ॥ १४९ ॥
तस्मान्नीलं तथा पीतं घटादिर्वा विशेषणम् ।
संविदस्तदुपेयं स्याद्येन चाप्यनुभूयते ॥ १५० ॥
रूपादीनां यथान्यः स्याद्ब्राह्यत्वाड्राहकस्तथा ।
प्रत्ययस्य तथान्यः स्याद्व्यञ्जकत्वात्प्रदीपवत् ॥
अध्यक्षस्य दृशेः कीदृक्संबन्धः संभविष्यति ।
अध्यक्ष्येण तु दृश्येन मुक्त्वान्यो द्रष्टृदृभ्यताम् ॥
अध्यक्षेण कृता दृष्टिर्दश्यं व्याप्नोत्यथापि वा ।
नित्याध्यक्षकृतः कश्चिदुपकारो भवेद्धियाम् ॥ १५३ ॥
स चोतस्तन्निभत्वं प्राक्संव्याप्तिभ्व घटादिषु ।
यथा लोकादिसंव्याप्तिर्व्यञ्जकत्वाद्धियस्तथा ॥
आलोकस्यो घटो यद्वद्बुद्ध्यारूढो भवेत्तथा ।
धीव्याप्तिः स्याद्धटारोहो धियो व्याप्तौ क्रमो भवेत् ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot