Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
अद्रष्टुर्नैव चान्धस्य स्पष्टीभावो घटस्य तु ।
कर्त्रादेः स्पष्टतेष्टा चेद्रष्टृताध्यक्षकर्तृका ॥ १४० ॥
 
अनुभूतेः किमन्यस्मिन्स्यात्तवापेक्षया वद ।
अनूभवितरीष्ठा स्यात्सोऽप्यनूभूतिरेव नः ॥ १४१ ॥
 
अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ १४२ ॥
 
भूतियां क्रिया सैव कारकं सैव चोच्यते ।
सत्त्वं नाशित्वमस्याश्चेत्स कर्तृत्वं तथेप्यताम् ॥
 
न कश्चिच्चेप्यते धर्म इति चेत्पक्षहानता ।
नन्वस्तित्वादयो धर्मा नास्तित्यादिनिवृत्तयः ॥
 
न भूतेस्तर्हि नाशित्वं स्वालक्षण्यं मतं हि ते ।
स्वलक्षणावधिर्नाशो नाशोऽनाशनिवृत्तिता ॥ १४५ ॥
 
अगोरसत्त्वं गोत्वं ते न तु तनोत्वलक्षणम् ।
क्षणवाच्योऽपि योऽर्थः स्यात्सोऽप्यन्याभाव एव ते ॥
 
भेदाभावेऽप्यभावस्य भेदो नामभिरिष्यते ।
 
नामभेदैरनेकत्वमेकस्य स्यात्कथं तब ॥ १४७ ॥
 
२२९
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang