2026-05-06 06:43:19 by ambuda-bot
This page has not been fully proofread.
२२८
उपदेशसहस्री
व्याप्तुमिष्टं च यत्कर्तुः क्रियया कर्म तत्स्मृतम् ।
अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता ॥ १३२ ॥
शब्दाद्वानुमितैर्वापि प्रमाणाद्वा ततोऽन्यतः ।
सिद्धिः सर्वपदार्थानां स्यादर्श प्रति नान्यथा ॥ १३३ ॥
अध्यक्षस्यापि सिद्धिः स्यात्प्रमाणेन विनैव वा ।
विना स्वस्य प्रसिद्धिस्तु नाशं प्रत्युपयुज्यते ॥ १३४ ॥
तस्यैवाशत्वमिष्टं चेज्ज्ञानत्वेऽन्या मतिर्भवेत् ।
अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥ १३५ ॥
शातता स्वात्मलाभो वा सिद्धिः स्यादन्यदेव वा ।
ज्ञातत्वेऽनन्तरोक्तौ त्वं पक्षी संस्मर्तुमर्हसि ॥ १३६ ॥
सिद्धिः स्यात्स्वात्मलाभश्चेद्यत्नस्तत्र निरर्थकः ।
सर्वलोकप्रसिद्धत्वात्स्वहेतुभ्यस्तु वस्तुनः ॥ १३७ ॥
ज्ञानज्ञेयादिवादेऽतः सिद्धिर्ज्ञातत्वमुच्यते ।
अध्यक्षाध्यक्ष्ययोः सिद्धिर्ज्ञेयत्वं नात्मलाभता ॥
स्पष्टत्वं कर्मकर्त्रादेः सिद्धिता यदि कल्प्यते ।
स्पष्टतास्पष्टते स्यातामन्यस्यैव न चात्मनः ॥ १३९ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot