Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
किमन्यङ्ग्राहयेत्कश्चित्प्रमाणेन तु केनचित् ।
विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥ १२४ ॥
 
शब्देनैव प्रमाणेन निवृत्तिश्चेदिहोच्यते ।
अध्यक्षस्याप्रसिद्धत्वाच्छ्रन्यतैव प्रसज्यते ॥ १२५ ॥
 
चेतनस्त्वं कथं देह इति चेन्नाप्रसिद्धितः ।
चेतनस्यान्यतः सिद्धावेवं स्यादन्यहानतः ॥ १२६ ॥
 
अध्यक्षः स्वयमस्त्येव चेतनस्यापरोक्षतः ।
तुल्य एवं प्रबोधः स्यादन्यस्यासत्त्वत्वादिना ॥
 
अहमशासिपं चेदमिति लोकस्मृतेरिह ।
 
करणं कर्म कर्ता च सिद्धास्त्वेकक्षणे किल ॥ १२८ ॥
 
प्रामाण्येऽपि स्मृतेः शैघ्रथाद्यौगपद्यं विभाव्यते ।
क्रमेण ग्रहणं पूर्व स्मृतेः पश्चात्तथैव च ॥ १२९ ॥
 
अशासिपमिदं मां चेत्यपेक्षा जायते ध्रुवम् ।
विशेषोऽपेक्ष्यते यत्र तत्र नैवैककालता ॥ १३० ॥
 
आत्मनी ग्रहणे चापि त्रयाणामिह संभवात् ।
आत्मन्यासक्तकर्तृत्वं न स्यात्करणकर्मणोः ॥ १३१ ॥
 
२२७
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang