2026-02-24 05:23:43 by ambuda-bot
This page has not been fully proofread.
२३६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् ।
ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥
बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा कुशैर्नात्मा संपद्यते पुनः ॥ ८५० ॥
तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।
निःशेषवासनाक्षयै विपरीत निवृत्तये ॥ ८५१ ॥
ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते ।
कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥
परस्परविरुद्धत्वात्तयोभिन्न स्वभावयोः ।
कर्तृत्वभावनापूर्व कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥
देहात्मबुद्धेर्विच्छियै ज्ञानं कर्म विवृद्धये ।
अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥। ८५४ ॥
ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा ।
सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥
निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः ।
प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् ।
प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥