Proofing

This page has not been fully proofread.

पद्मप्रबन्धः ।
 
कूटस्थेऽपि फलं योग्यं राजनीव जयादिकम् ।
तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥ १०८ ॥
 
आदर्शस्तु यदाभासो मुखाकारः स एव सः ।
यथैवं प्रत्ययादर्शो यदाभासस्तदा ह्यहम् ॥ १०९ ॥
 
इत्येवं प्रतिपत्तिः स्यात्सदस्मीति च नान्यथा ।
तत्त्वमित्युपदेशोऽपि द्वाराभावादनर्थकः ॥ ११० ॥
 
श्रोतुः स्यादुपदेशश्चेदर्थवत्त्वं तदा भवेत् ।
अध्यक्षस्य न चेदिष्टं श्रोतृत्वं कस्य तद्भवेत् ॥ १११ ॥
 
अध्यक्षस्य समीपे स्याद्बुद्धेरेबेति चेन्मतम् ।
 
न तत्कृतोपकारोऽस्ति काष्ठाद्यद्वन्न कल्प्यते ॥ ११२ ॥
 
बुद्धी चेत्तत्कृतः कश्चिन्नन्वेवं परिणामिता ।
आभासेऽपि च को दोपः सति श्रुत्याद्यनुग्रहे ॥ ११३ ॥
 
आभासे परिणामश्चेन्न रज्ज्वादिनिभत्ववत् ।
सर्पादेश्व तथावोचमादर्शे च मुखत्ववत् ॥ ११४ ॥
 
नात्माभासत्वसिद्धिश्वेदात्मनो ग्रहणात्पृथक् ।
 
मुखादेव पृथक्सिद्धिरिह त्वन्योन्यसंश्रयः ॥ ११५ ॥
 
8. P. 15
 
२२५
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang