This page has not been fully proofread.

२३४
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः
 
नान्तः प्रज्ञो नो बहिः प्रज्ञको वा
 
नैव प्रज्ञो नापि चाप्रज्ञ एषः ।
 
नाहं श्रोता नापि मन्ता न बोद्धा
 
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४० ॥
 
न मेऽस्ति देहेन्द्रियबुद्धियोगो
 
न पुण्यलेशोऽपि न पापलेशः ।
 
क्षुधापिपासादिषडूर्मिदूर:
 
सदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥
 
अपाणिपादोऽहमवागचक्षुषी
 
प्राण एवास्म्यमना ह्यबुद्धिः ।
व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि
 
सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥
 
इति स्वमात्मानमवेक्षमाणः
 
प्रतीतदृश्यं प्रविलापयन्सदा ।
 
जहाति विद्वान्विपरीतभावं
 
स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥। ८४३ ॥