2026-05-06 06:43:18 by ambuda-bot
This page has not been fully proofread.
२२४
उपदेश सहली
ब्रह्मा दाशरथेर्यद्वदुक्त्यैवापानुदत्तमः ।
तस्य विष्णुत्वसंबोधे न यत्नान्तरमूचिवान् ॥ १०० ॥
अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि ।
सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ॥ १०१ ॥
श्रुतमात्रेण चेन्न स्यात्कार्यं तत्र भवेद्ध्रुवम् ।
व्यवहारात्पुरापीष्टः सद्भावः स्वयमात्मनः ॥ १०२ ॥
अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा
तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्वसंशयः ॥ १०३ ॥
प्रतिबन्धविहीनत्वात्स्वयं चानुभवात्मनः ।
'जायेतैव प्रमा तन स्वात्मन्येव न संशयः ॥ १०४ ॥
किं सदेवाहमस्मीति किं वान्यत्प्रतिपद्यते ।
सदेव चेदहंशब्दः सता मुख्यार्थ इप्यताम् ॥ १०५ ॥
अन्यश्चेत्सदहंग्राहिप्रतिपत्तिर्नृपैव सा ।
तस्मान्मुख्यग्रहे नास्ति वारणावगतेरिह ॥ १०६ ॥
प्रत्ययी प्रत्ययश्चैव यदाभासौ तदर्थता ।
तयोरचितिमत्त्वाच्च चैतन्ये कल्प्यते फलम् ॥ १०७ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot