Proofing

This page has not been fully proofread.

पद्य प्रबन्धः ।
 
अन्योन्यापेक्षया तेपां प्रधानगुणतेष्यते ।
विशेषणविशेष्यत्वं तथा ग्राह्यं हि युक्तितः ॥ ९२ ॥
 
ममेदं द्वयमप्येतन्मध्यमस्य विशेषणम् ।
 
धनी गोमान्यथा तद्वद्देहोऽहंकर्तुरेव च ॥ ९३ ॥
 
२२३
 
बुद्धयारूढं सदा सर्व साहंकर्ता च साक्षिणः ।
तस्मात्सर्वावभासो शः किंचिदप्यस्पृशन्सदा ॥ ९४ ॥
 
प्रतिलोममिदं सर्वं यथोक्तं लोकबुद्धितः ।
 
अविवेकधियामस्ति नास्ति सर्वे विवेकिनाम् ॥ ९५ ॥
 
अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।
स्यादेतदहमित्यत्र युक्तिरेवावधारणे ॥ ९६ ॥
नाद्राक्षमहमित्यस्मिन्सुषुप्ते ऽन्यन्मनागपि ।
न वारयति दृष्टि स्वां प्रत्ययं तु निषेधति ॥ ९७ ॥
स्वयं ज्योतिर्न हि द्रष्टुरित्येवं संविदोऽस्तिताम् ।
कौटस्थ्यं च तथा तस्याः प्रत्ययस्य तु लुप्तताम् ।
स्वयमेवाब्रवीच्छास्त्रं प्रत्ययावगती पृथक् ॥ ९८ ॥
एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः ।
श्रुतिस्तत्त्वमसीत्याह श्रोतुमहापनुत्तये ॥ ९९ ॥
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang