This page has not been fully proofread.

२३२
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति ।
 
दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ॥
 
सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु ।
कामादिप्रत्ययैश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥
 
सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।
अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१ ॥
 
दृश्यन्ते येन संदृष्टा दृश्याः स्युरह्मादयः ।
कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२ ॥
 
साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः ।
कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥
 
इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।
दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥
 
नाहं देहो नाप्यसुनीक्षवर्गो
 
नाहंकारो नो मनो नापि बुद्धि: ।
 
अन्तस्तेषां चापि तद्विक्रियाणां
 
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥