2026-05-06 06:43:18 by ambuda-bot
This page has not been fully proofread.
२२२
उपदेशसहस्री
आभासस्तदभावश्च दृशेः सीनो न चान्यथा ।
लोकस्य युक्तितः स्यातां तद्ब्रहश्च तथा सति ॥ ८४ ॥
नन्वेवं दृशिसंक्रान्तिरयःपिण्डेऽग्निवद्भवेत् ।
मुखाभासवदित्येतदादशें तन्निराकृतम् ॥ ८५ ॥
कृष्णायो लोहिताभासमित्येतद्दष्टमुच्यते
दृष्टदार्शन्ततुल्यत्वं न तु सर्वात्मना क्वचित् ॥ ८६ ॥
तथैव चेतनाभासं चित्तं चैतन्यचद्भवेत् ।
मुखाभासो यथादर्श आभासचोदितो मृषा ॥ ८७ ॥
चित्तं चेतनमित्येतच्छास्त्रयुक्तिविवर्जितम् ।
देहस्यापि प्रसङ्गः स्याच्चक्षुरादेस्तथैव च ॥ ८८ ॥
तदप्यस्त्विति चेत्तन्न लौकायतिकसंगतेः ।
न च धीर्हशिरस्मीति यद्याभासो न चेतसि ॥ ८९ ॥
सदस्मीति धियोऽभावे व्यर्थे स्यात्तत्त्वमस्यपि ।
युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः ॥ ९० ॥
ममेदंप्रत्ययौ शेयी युष्मद्येव न संशयः ।
अहमित्यस्मदीष्टः स्यादयमस्मीति चोभयोः ॥ ९१ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot