2026-05-06 06:43:18 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
२२१
अर्थी दुःखी च यः श्रोता स त्वध्यक्षोऽथवेतरः ।
अध्यक्षस्य च दुःस्त्रित्वमर्थित्वं च न ते मतम् ॥ ७६ ॥
कर्ताध्यक्षः सदस्मीति नैव सङ्ग्रहमर्हति ।
सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते ॥ ७७ ॥
अविविच्योभयं वक्ति श्रुतिश्चेत्स्याङ्ग्रहस्तथा ।
अस्मदस्तु विचिच्यैव त्वमेवेति वदेद्यदि ॥ ७८ ॥
प्रत्ययान्वयिनिष्ठत्वमुक्तदोषः प्रसज्यते ।
त्वमित्यध्यक्षनिष्ठश्चेदहमध्यक्षयोः कथम् ॥ ७९ ॥
संबन्धो वाच्य एवात्र येन त्वमिति लक्षयेत् ।
द्रष्टृदृश्यत्वसंबन्धो यद्यध्यक्षेऽक्रिये कथम् ॥ ८० ॥
अक्रियत्वेऽपि तादात्म्यमध्यक्षस्य भवेद्यदि ।
आत्माध्यक्षो ममास्तीति संबन्धाग्रहणेन धीः ॥ ८१ ॥
संवन्धग्रहणं शास्त्रादिति चेन्मन्यसे न हि ।
पूर्वोक्ताः स्युस्त्रयो दोपा ग्रहो वा स्यान्ममेति च ॥ ८२ ॥
अदृशिर्डशिरूपेण भाति बुद्धिर्यदा तदा ।
प्रत्यया अपि तस्याः स्युस्तप्तायोविस्फुलिङ्गवत् ॥ ८३ ॥
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang