Proofing

This page has not been fully proofread.

.२२०
 
उपदेश सहसी
 
यौद्धैस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः ।
 
मोहिताः क्रियते ज्ञानमित्याहुस्तार्किका जनाः ॥ ६८ ॥
 
तस्माज्जाभासवुद्धीनामविवेकात्प्रवर्तिताः ।
 
जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः ॥ ६९ ॥
 
आदर्शानुविधायित्वं छायाया अस्यते मुखे ।
बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेप्यते ॥ ७० ॥
 
बुद्धेस्तु प्रत्ययास्तस्मादात्माभासेन दीपिताः ।
ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥ ७१ ॥
 
स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च ।
इत्येवं ग्राहकास्तित्वं प्रतिषेधन्ति सोगताः ॥ ७२ ॥
 
यद्येवं नान्यदृभ्यास्ते किं तद्वारणमुच्यताम् ।
भावाभावौ हि तेषां यौ नान्यग्राह्यौ सता यदि ॥ ७३ ॥
 
अन्वयी ग्राहकस्तेषामित्येतदपि तत्समम् ।
अचित्त्वस्यापि तुल्यत्वादन्यस्मिन्ग्राहके सति ॥ ७४ ॥
 
अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन्मतम् ।
नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसङ्गतः ॥ ७५ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot