2026-05-06 06:43:17 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
शब्दानामयथार्थत्वे वेदस्याप्यप्रमाणता ।
२१९
सा च नेष्टा ततो ग्राह्या गतिरस्य प्रसिद्धितः ॥ ६० ॥
प्रसिद्धिर्मूढलोकस्य यदि ग्राह्या निरात्मता ।
लौकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते ॥ ६१ ॥
अभियुक्तप्रसिद्धिश्चेत्पूर्ववद्दुर्विवेकता ।
गतिशून्यं न वेदोऽयं प्रमाणं संवदत्युत ॥ ६२ ॥
आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः ।
मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥ ६३ ॥
यत्र यस्यावभासस्तु तयोरेवाविवेकतः ।
जानातीति क्रियां सर्वो लोको यक्ति स्वभावतः ॥ ६४ ॥
बुद्धेः कर्तुत्वमध्यस्य जानातीति ज्ञ उच्यते ।
तथा चैतन्यमध्यस्य शत्वं बुद्धेरिहोच्यते ॥ ६५ ॥
स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिःश्रुतेर्यतः ।
न बुद्ध्या क्रियते तस्मादात्मनान्येन वा सदा ॥ ६६ ॥
देहेऽप्रत्ययो यद्वजानातीति च लौकिकाः ।
वदन्ति ज्ञानकर्तृत्वं तद्वद्बुद्धेस्तथात्मनः ॥ ६७ ॥
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang