This page has not been fully proofread.

२२८
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
अखण्डाकारवृत्तिः सा चिदाभाससमन्विता ।
 
आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥
 
बाधते तद्गताज्ञानं यदावरणलक्षणम् ।
 
अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥
 
तत्कार्यं सकलं तेन समं भवति बाधितम् ।
तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥
 
तस्य कार्यतया जीववृत्तिर्भवति बाधिता ।
 
उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ ८०१ ॥
 
तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् ।
 
स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥
 
प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः ।
 
तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥
 
बिम्बभूतपरब्रह्ममात्रं भवति केवलम् ।
 
यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥
 
मुखमात्रं भवेत्तद्वदेतच्चोपाधिसंक्षयात् ।
 
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥