2026-05-06 06:43:17 by ambuda-bot
This page has not been fully proofread.
२१८
उपदेशसहस्री
नानयोर्द्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा ।
जानात्यर्थेषु को हेतुद्वर्याश्रयत्वे निगद्यताम् ॥ ५२ ॥
आत्माभासस्तु तिवाच्यो धात्वर्थश्च धियः क्रिया ।
उभयं चाविवेकेन जानातीत्युच्यते मृषा ॥ ५३ ॥
न बुद्धेरवबोधोऽस्ति नात्मनो विद्यते क्रिया ।
अतो नान्यतरस्यापि जानातीति च युज्यते ॥ ५४ ॥
नाप्यतो भावशब्देन ज्ञप्तिरित्यपि युज्यते ।
न ह्यात्मा विक्रियामात्रं नित्य आत्मेति शासनात् ॥
न बुद्धेर्बुद्धिवाच्यत्वं करणं न हाकर्तृकम् ।
नापि ज्ञायत इत्येवं कर्मशब्दैर्निरूप्यते ॥ ५६ ॥
न येषामेक एवात्मा निर्दुःखोऽविक्रियः सदा ।
तेषां स्याच्छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥ ५७ ॥
यदाहंकर्तुरात्मत्वं तदा शब्दार्थमुख्यता ।
नाशनायादिमत्त्वात् श्रुतौ तस्यात्मतेप्यते ॥ ५८ ॥
हन्त तर्हि न मुख्यार्थी नापि गौणः कथंचन ।
जानातीत्यादिशब्दस्य गतिर्वाच्या तथापि तु ॥ ५९ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot