2026-02-24 05:23:41 by ambuda-bot
This page has not been fully proofread.
शिष्य :-
सर्ववेदान्तसिद्धान्तसारसंग्रहः । २२७
अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः ।
श्रोतुः संजायते किं वा क्रियान्तरमपेक्षते ॥ ७९३ ॥
समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् ।
समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥
श्रीगुरु :-
मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।
तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा
संतोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः ।
नित्यानित्यविवेकतीत्रविरविन्यासादिभिः साधनै-
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा
वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।
नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं
तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥