2026-05-06 06:43:17 by ambuda-bot
This page has not been fully proofread.
पद्मप्रबन्धः । -
२१७
न दृशेरविकारित्वादाभासस्याप्यवस्तुतः ।
नाचितित्वादहंकर्तुः कस्य संसारिता भवेत् ॥ ४४ ॥
अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः ।
कूटस्थेनात्मना नित्यमात्मवानात्मनीव सः ॥ ४५ ॥
रज्जुसर्पों यथा रज्ज्वा सात्मकः प्राग्विवेकतः ।
अवस्तुसन्नपि ह्येष कूटस्थेनात्मना तथा ॥ ४६ ॥
आत्माभासाश्रयश्चात्मा प्रत्ययैः स्वैर्विकारवान् ।
सुखी दुःखी च संसारी नित्य एवेति केचन ॥ ४७ ॥
आत्माभासापरिज्ञानाद्याथात्म्येन विमोहिताः ।
अहंकर्तारमात्मेति मन्यन्ते ते निरागमाः ॥ ४८ ॥
संसारो वस्तुसंस्तेषां कर्तृभोर्तृत्वलक्षणः ।
आत्माभासाश्रयाज्ञानात्संसरन्त्यविवेकतः ॥ ४९ ॥
चैतन्याभासता बुद्धेरात्मनस्तत्स्वरूपता ।
स्याश्चेत्तं ज्ञानशब्देश्च वेदः शास्तीति युज्यते ॥ ५० ॥
प्रकृतिप्रत्ययार्थी यी भिन्नावेकाथयौ यथा ।
करोति गच्छतीत्यादी दृष्टौ लोकप्रसिद्धितः ॥ ५१ ॥
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGanga