2026-02-24 05:23:41 by ambuda-bot
This page has not been fully proofread.
२.२६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तदृशिमात्रम् ।
सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८६ । ।
सर्वाकारं सर्वमसर्व सर्वनिषेधावधिभूतं यत् ।
सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥८॥
नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम ।
प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥
त्वं प्रत्यस्ताशेषविशेष व्योमवान्तर्बहिरपि पूर्णम ।
ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥
वामहं ब्रह्म निर्गुणं निर्विकल्पकम ।
इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥
अखण्डामेवैतां घटितपरमानन्दलहरीं
परिध्वस्तद्वैतप्रमिति ममलां वृत्तिमनिशम् ।
अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे
रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥
ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा ।
समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥