2026-05-06 06:43:16 by ambuda-bot
This page has not been fully proofread.
२१६
उपदेशसहस्री
इत्येवं सौगता आहुस्तत्र न्यायो विचार्यताम् ।
संसारिणां कथा त्वास्तां प्रकृतं त्वधुनोच्यते ॥ ३६ ॥
मुखाभासो य आदर्श धर्मो नान्यतरस्य सः ।
द्वयोरेकस्य चेद्धर्मो विविक्तेऽन्यतरे भवेत् ॥ ३७ ॥
मुखेन व्यपदेशात्स मुखस्यैवेति चेन्मतम् ।
नादर्शानुविधानाच्च मुखे सत्यप्यभावतः ॥ ३८ ॥
द्वयोरेवेति चेत्तन्न द्वयोरेवाप्यदर्शनात् ।
अदृश्यस्य सतो दृष्टिः स्याद्राहोश्चन्द्रसूर्ययोः ॥ ३९ ॥
राहोः प्रागेव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः ।
छायापक्षे त्ववस्तुत्वं तस्य स्यात्पूर्वयुक्तितः ॥ ४० ॥
छायाक्रान्तेर्निषेधोऽयं न तु वस्तुत्वसाधकः ।
न हार्थान्तरनिष्ठं सद्वाक्यमर्थान्तरं वदेत् ॥ ४१ ॥
माधुर्यादि च यत्कार्यमुष्णद्रव्याद्यसेवनात् ।
छायाया न त्वदृष्टत्वादपामेव च दर्शनात् ॥ ४२ ॥
आत्माभासाश्रयाश्चैवं मुखाभासाश्रया यथा ।
गम्यन्ते शास्त्रयुक्तिभ्यामाभासासत्त्वमेव च ॥ ४३ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot