Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
जातिकर्मादिमत्त्वाद्धि तस्मिञ्शब्दास्त्वहंकृति ।
न कश्चिद्वर्तते शब्दस्तदभावात्स्व आत्मनि ॥ २८ ॥
 
आभासो यत्र तत्रैव शब्दाः प्रत्यग्दशि स्थिताः ।
लक्षयेयुर्न साक्षात्तमभिदध्युः कथंचन ॥ २९ ॥
 
न ह्यजात्यादिमान्कश्चिदर्थः शब्देर्निरूप्यते ।
आत्माभासो यथाहंकृदात्मशब्दैस्तथोच्यते ॥ ३० ॥
 
उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान्न चाञ्जसा ।
मुखादन्यो मुखाभासो यथादर्शानुकारतः ॥ ३१ ॥
 
आभासान्मुखमप्येवमादर्शाननुवर्तनात् ।
अहंकृत्यात्मनिर्भासो मुखाभासवदिष्यते ॥ ३२ ॥
 
मुखवत्स्मृत आत्मान्योऽविविक्ती ती तथैव च ।
संसारी च स इत्येक आभासो यस्त्वहंकृतिः ॥ ३३ ॥
 
वस्तु च्छाया स्मृतेरन्यन्माधुर्यादि च कारणम् ।
लैकदेशो विकारो वा तदाभासाश्रयः परे ॥ ३४ ॥
 
अहंकर्तेव संसारी स्वतन्त्र इति केचन ।
 
अहंकारादिसंतानः संसारी नान्चयी पृथक् ॥ ३५ ॥
 
२१५
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang