2026-05-06 06:43:16 by ambuda-bot
This page has not been fully proofread.
२१४
उपदेश सहस्री
पुत्रदुःखं यथाध्यस्तं पित्रा दुःखे स्व आत्मनि ।
अहंकर्ता तथाभ्यस्तो नित्यादुःखे स्व आत्मनि ॥
सोऽध्यासो नेति नेतीति प्राप्तवत्प्रतिषिध्यते ।
भूयोऽभ्यासविधिः कश्चित्कुतश्चिन्नोपपद्यते ॥ २१ ॥
आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च ।
मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः ॥ २२ ॥
प्राप्तश्चेत्प्रतिषिध्येत मोक्षो ऽनित्यो भवेद्ध्रुवम् ।
अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत् ॥ २३ ॥
संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा ।
न संभाव्यौ तदात्मत्वादहंकर्तुस्तथैव च ॥ २४ ॥
अहंकर्नात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् ।
नेति नेतीति तत्सर्वे साहंकर्त्रा निषिध्यते ॥ २५ ॥
उपलब्धिः स्वयंज्योतिर्हशिः प्रत्यक्सदाक्रियः ।
साक्षात्सर्वान्तरः साक्षी चेता नित्योऽगुणोऽद्वयः ॥
संनिधौ सर्वदा तस्य स्यात्तदाभोऽभिमानकृत् ।
आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः ॥ २७ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot