Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
२१३
 
चेष्टितं च यतो मिथ्या स्वच्छन्दः प्रतिपद्यते ।
प्रसंख्यानमतः कार्यं यावदात्मानुभूयते ॥ १२ ॥
 
सदस्मीति च विज्ञानमक्षजो बाधते ध्रुवम् ।
शब्दोत्थं दृढसंस्कारो दोषैश्वाकृप्यते बहिः ॥ १३ ॥
 
धृतानुमानजन्मानी सामान्यविषयौ यतः ।
प्रत्ययावक्षोऽवश्यं विशेषार्थो निवारयेत् ॥ १४ ॥
 
चाक्यार्थप्रत्ययी कश्चिन्निर्दुःखो नोपलभ्यते ।
यदि वा दृश्यते कश्चिद्वाक्यार्थश्रुतिमात्नतः ॥ १५ ॥
 
निर्दुःखोऽतीतदेहेषु कृतभावोऽनुमीयते ।
 
चर्या तो शास्त्रसंवेद्या स्यादनिष्टं तथा सति ॥ १६ ॥
 
सदसीति फलं चोक्त्वा विधेयं साधनं यतः ।
न तदन्यत्प्रसंख्यानात्प्रसिद्धार्थमिहेप्यते ॥ १७ ॥
 
तस्मादनुभवायैव प्रसंचक्षीत यत्नतः ।
त्यजन्साधनतत्साध्यविरुद्धं शमनादिमान् ॥ १८ ॥
 
नैतदेवं रहस्यानां नेति नेत्यवसानतः ।
 
क्रियासाध्यं पुरा भाव्यं न मोक्षो नित्यसिद्धतः ॥ १९ ॥
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang