Proofing

This page has not been fully proofread.

२१२
 
उपदेश सहली
 
सिद्धादेवाहमित्यस्माद्युष्मद्धम निषिध्यते ।
रज्ज्वामिचाहिधीर्युक्त्या तत्त्वमित्यादिशासनैः ॥ ४ ॥
 
शास्त्रप्रामाण्यतो ज्ञेया धर्मादेरस्तिता यथा ।
विषापहो यथा ध्यानान्निवृत्तिः पाप्मनस्तथा ॥ ५ ॥
 
सह्माहं करोमीति प्रत्यवायात्मसाक्षिकौ ।
तयोरज्ञानजस्यैव त्यागो युक्ततरो मतः ॥ ६ ॥
 
सदस्मीति प्रमाणोत्था धीरन्या तन्निभोद्भवा ।
प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥ ७ ॥
 
कर्ता भोक्तेति यच्छास्त्रं लोकबुद्धयनुवादि तत् ।
सदस्मीति श्रुतेर्जाता वाध्यतेऽन्या तयैव धीः ॥ ८ ॥
 
सदेव त्वमसीत्युक्ते नात्मनो मुक्तता स्थिरा ।
प्रवर्तते प्रसंचक्षामतो युक्त्यानुचिन्तयेत् ॥ ९ ॥
 
सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत् ।
अपेक्षते ऽत एवान्यदवोचाम द्वयं हि तत् ॥ १० ॥
 
नियोगोऽप्रतिपन्नत्वात्कर्मणां स यथा भवेत् ।
 
अविरुद्धो भवेत्तावद्यावत्संवेद्यतादृढा ॥ ११ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot