2026-05-06 06:43:15 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
२११
ददतश्चात्मनो ज्ञानं निष्क्रयोऽन्यो न विद्यते ।
ज्ञानमिच्छंस्तरेत्तस्माद्युक्तः शिष्यगुणैः सदा ॥ ८७ ॥
ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यन्न विद्यते ।
सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः ॥ ८८ ॥
विद्यया तारिताः स्मो यैर्जन्ममृत्युमहोदधिम् ।
सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसंकुलम् ॥ ८९ ॥
तत्त्वमतिप्रकरणम् ॥
येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः ।
नित्यावगतये तस्मै नमो धीप्रत्यगात्मने ॥ १ ॥
प्रमथ्य वज्रोपमयुक्तिसंभृतैः
श्रुतेररातीञ्शतशो वचोबलैः ।
ररक्ष वेदार्थनिधिं विशालधी-
र्नमो यतीन्द्राय गुरोर्गरीयसे ॥ २ ॥
नित्यमुक्तः सदेवास्मीत्येवं चेन्न भवेन्मतिः ।
किमर्थे श्रावयत्येवं मातृवच्छ्रुतिराहता ॥ ३ ॥
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang