2026-02-24 05:23:40 by ambuda-bot
This page has not been fully proofread.
२२०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च ।
अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५ ॥
भागलक्षणया सम्यग्लक्ष्यत्यनया यथा ।
तथा सत्य वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ।
एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७ ॥
परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् ।
बुद्धयादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८ ॥
परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् ।
वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम ॥ ७५९ ॥
लक्षयत्यनया सम्यग्भागलक्षणया ततः ।
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम ॥ ७६० ॥
निर्विशेषं निराभासमतादृशमनीदृशम् ।
अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् ।
अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते । ७६१ ॥