Proofing

This page has not been fully proofread.

२१०
 
उपदेशसहस्री
 
राजवत्साक्षिमात्रत्वात्सांनिध्याद्भ्रामको यथा ।
भ्रामयञ्जगदात्माहं निष्क्रियोऽकारकोऽद्वयः ॥ ८० ॥
 
निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन्निरामयम् ।
शुद्धं बुद्धं तथा मुक्तं तद्ब्रह्मास्मीति धारयेत् ॥ ८१ ॥
 
वन्धं मोक्षं च सर्वे यत इदमुभयं हेयमेकं द्वयं च
ज्ञेयाज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम् ।
विज्ञायैतद्यथावच्छ्रुतिमुनिगदितं शोकमोहाचतीतः
 
सर्वज्ञः सर्वकृत्स्याद्भवभयरहितो ब्राह्मणोऽवाप्तकृत्यः ॥
 
न स्वयं स्वस्य नान्यस्य नान्यश्चात्मा च हेयगः ।
उपादेयो न चाप्येवमिति सम्यातिः स्मृता ॥ ८३ ॥
 
आत्मप्रत्यायिका होपा सर्ववेदान्तगोचरा ।
त्वेतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥ ८४ ॥
 
रहस्यं सर्ववेदानां देवानां चापि दुर्लभम् ।
 
पवित्रं परमं ह्येतत्तदेतत्संप्रकाशितम् ॥ ८५ ॥
 
नैतद्देयमशान्ताय रहस्यं ज्ञानमुत्तमम् ।
 
विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥ ८६ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot