2026-02-24 05:23:40 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
२१९
एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् ।
न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥
तत्पदं त्वंपदं चापि स्वकीयार्थविरोधिनम् ।
अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८ ॥
तदर्थं वा त्वमर्थ वा सम्यग्लक्ष्यतः स्वयम् ।
भागलक्षणया साध्यं किमस्तीति न शङ्कयताम् ॥ ७४९ ॥
अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् ।
एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५० ॥
पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः ।
तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥
तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा ।
वाक्यार्थसत्त्वखण्डैकरसतासिद्धये मता ॥ ७५२ ॥
भागं विरुद्धं संत्यज्याविरोधो लक्ष्यते यदा ।
सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥
सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा ।
देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥