2026-05-06 06:43:14 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
सर्वयात्माहमेवेति ब्रह्म चेद्विदितं परम् ।
२०९
स आत्मा सर्वभूतानामात्मा ह्येषामिति श्रुतेः ॥ ७२ ॥
जीवश्चेत्परमात्मानं स्वात्मानं देवमञ्जसा ।
देवोपास्यः स देवानां पशुत्वाच्च निवर्तते ॥ ७३ ॥
अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यथाम्बरम् ।
इत्येवं सत्यसंधत्वादसद्धानान्न बध्यते ॥ ७४ ॥
कृपणास्तेऽन्यथैवातो विदुर्ब्रह्म परं हि ये ।
स्वराड्योऽनन्यदृक्स्वस्थस्तस्य देवा असन्वशे ॥ ७४ ॥
हित्वा जात्यादिसंबन्धं वाचोऽन्याः सह कर्मभिः ।
ओमित्येवं स्वमात्मानं सर्वे शुद्धं प्रपद्यथ ॥ ७६ ॥
सेतुं सर्वव्यवस्थानामहोरात्रादिवर्जितम् ।
तिर्यगूर्ध्वमधः सर्वे सकृज्ज्योतिरनामयम् ॥ ७७ ॥
धर्माधर्मविनिर्मुक्तं भूतभव्यात्कृताकृतात् ।
स्वमात्मानं परं विद्याद्विमुक्तं सर्वबन्धनैः ॥ ७८ ॥
अकुर्वन्सर्वकृच्छुद्धस्तिष्ठन्नत्येति धावतः ।
मायया सर्वशक्तित्वादजः सन्बहुधा मतः ॥ ७९ ॥
8. P. 14
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang