Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
अन्यदृष्टिः शरीरस्थस्तावन्मात्रो ह्यविद्यया ।
जलेन्द्वाद्युपमाभिस्तु तद्धर्मा च विभाव्यते ॥ ५६ ॥
 
दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा नन्प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्यनध्वगः ॥ ५७ ॥
प्राणाद्येवं त्रिकं हित्वा तीर्णोऽज्ञानमहोदधिम् ।
स्वात्मस्यो निर्गुणः शुद्धो बुद्धो मुक्तः स्वनो हि सः ॥
 
अजोऽहं चामरोऽमृत्युरजरोऽभय एव च ।
सर्वज्ञः सर्वदृक्शुद्ध इति बुद्धो न जायते ॥ ५९ ॥
 
पूर्वोक्तं यत्तमोवीजं तन्नास्तीति विनिश्चयः ।
तदभावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥ ६० ॥
 
क्षीरात्सर्पिर्यथोद्धृत्य क्षिप्तं तस्मिन्न पूर्ववत् ।
बुद्ध्यादेर्शस्तथासत्यान्न देही पूर्ववद्भवेत् ॥ ६१ ॥
 
सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात्परम् ।
स्यामदृद्द्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयः ॥ ६२ ॥
 
यस्माद्भीताः प्रवर्तन्ते वाङ्मनः पावकादयः ।
तदात्मानन्दतत्त्वज्ञो न विमेति कुतश्चन ॥ ६३ ॥
 
२०७
 
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang