2026-02-24 05:23:39 by ambuda-bot
This page has not been fully proofread.
२१-६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
कथमेकत्वमनयोर्घटते विपरीतयोः ।
प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥
विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ ।
जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥
प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते ।
श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥
श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते ।
मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्य श्रुतेर्वचः ॥ ७२६ ॥
वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः ।
अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥
अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसंमतः ।
स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥
दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः ।
उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९ ॥
ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः ।
ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ ७३० ॥