Proofing

This page has not been fully proofread.

२०६
 
उपदेश सहस्री
 
यत्कामस्तत्क्रतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते ।
 
यदा स्वात्मदृशः कामाः प्रमुच्यन्तेऽमृतस्तदा ॥ ४८ ॥
 
आत्मरूपविधेः कार्य क्रियादिभ्यो निवर्तनम् ।
न साध्यं साधनं वात्मा नित्यतृप्तश्रुतेर्मतः ॥ ४९ ॥
 
उत्पाद्याप्यविकार्याणि संस्कार्ये च क्रियाफलम् ।
नानोऽन्यत्कर्मणा कार्य त्यजेत्तस्मात्ससाधनम् ॥ ५० ॥
 
नापान्तत्वादनित्यत्वादात्मार्थत्वाच्च या बहिः ।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुमाश्रयेत् ॥ ५१ ॥
 
शान्तं प्राशं तथा मुक्तं निष्क्रियं ब्रह्मणि स्थितम् । .
थुनेरात्रार्यवान्वेद तडिद्धीति स्मृतेस्तथा ॥ ५२ ॥
 
स गुरुस्तारयेद्युक्तं शिष्यं शिष्यगुणान्वितम् ।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥ ५३ ॥
 
दृष्टिः स्पृष्टिः श्रुतिर्घातिर्मतिर्विज्ञातिरेव च ।
शक्तयोऽन्याच्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः ॥ ५४ ॥
 
अपायोद्भूतिहीनाभिर्नित्यं दीप्यन्रविर्यथा । .
 
सर्वदृफ्सर्वगः शुद्धः सर्वे जानाति सर्वदा ॥ ५५ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot