This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२१५
 
शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् ।
इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥
 
विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा ।
 
वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६ ॥
 
अतः संगच्छते सम्यग्वाक्यार्थो बाधवर्जितः ।
एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥
तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि ।
त्वमर्थस्यापरोक्षत्वादिविशिष्ट चितेरपि ॥ ७१८ ॥
 
तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः ।
विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥
 
वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः ।
संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२० ॥
 
सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः ।
 
सर्वोत्तमः : सत्यकामः सत्यसंकल्प ईश्वरः ॥ ७२१ ॥
 
तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः ।
 
संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥