Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
व्यवधानाद्धि पारोक्ष्यं लोकदृष्टेरनात्मनः ।
दृष्टेरात्मस्वरूपत्वात्प्रत्यक्षं ब्रह्म यत्स्मृतम् ॥ ४० ॥
 
न हि दीपान्तरापेक्षा यद्वद्दीपप्रकाशने ।
बोधस्यात्मस्वरूपत्वान्न बोधोऽन्यस्तथेप्यते ॥ ४१ ॥
 
विषयत्वं विकारित्वं नानात्वं या न हीप्यते ।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः ॥ ४२ ॥
 
सग्राह्याभ्यन्तरोऽजीणों जन्ममृत्युजरातिगः ।
अहमात्मेति यो वेत्ति कुतो न्वेव विभेति सः ॥ ४३ ॥
 
प्रागेवैतद्विधेः कर्म वर्णित्वादेरपोहनात् ।
तदस्थूलादिशास्त्रेभ्यस्तत्त्वमेवेति निश्वयात् ॥ ४४ ॥
 
पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः ।
देहस्यैव तु जात्यादिस्तस्याप्येवं ह्यनात्मता ॥ ४५ ॥
 
ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु ।
आत्मज्ञानेन हेया स्यादसुराणामिति श्रुतेः ॥ ४६ ॥
 
दशाहाशौच कार्याणां पारिव्राज्ये निवर्तनम् ।
 
यथा ज्ञानस्य संप्राप्ती तद्वजात्यादिकर्मणाम् ॥ ४७ ॥
 
२०५
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang